हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Shri Ram Apaduddharaka Stotram – श्री राम आपदुद्धारक स्तोत्रम्
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ १ ॥
आपन्नजनरक्षैकदीक्षायामिततेजसे ।
नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ २ ॥
पदाम्भोजरजस्स्पर्शपवित्रमुनियोषिते ।
नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ ३ ॥
दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे ।
नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ ४ ॥
महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे ।
नमः कल्याणरूपाय रामायापन्निवारिणे ॥ ५ ॥
पद्मसम्भव भूतेश मुनिसंस्तुतकीर्तये ।
नमो मार्ताण्डवंश्याय रामायापन्निवारिणे ॥ ६ ॥
हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः ।
नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ ७ ॥
तापकारणसंसारगजसिंहस्वरूपिणे ।
नमो वेदान्तवेद्याय रामायापन्निवारिणे ॥ ८ ॥
रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे ।
नमः प्रतापरूपाय रामायापन्निवारिणे ॥ ९ ॥
दारोपहितचन्द्रावतंसध्यातस्वमूर्तये ।
नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ १० ॥
तारानायकसङ्काशवदनाय महौजसे ।
नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे ॥ ११ ॥
रम्यसानुलसच्चित्रकूटाश्रमविहारिणे ।
नमः सौमित्रिसेव्याय रामायापन्निवारिणे ॥ १२ ॥
सर्वदेवहितासक्त दशाननविनाशिने ।
नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ १३ ॥
रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च ।
नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ १४ ॥
संसारबन्धमोक्षैकहेतुधामप्रकाशिने ।
नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ १५ ॥
पवनाशुग सङ्क्षिप्त मारीचादि सुरारये ।
नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ १६ ॥
दाम्भिकेतरभक्तौघमहदानन्ददायिने ।
नमः कमलनेत्राय रामायापन्निवारिणे ॥ १७ ॥
लोकत्रयोद्वेगकर कुम्भकर्णशिरश्छिदे ।
नमो नीरददेहाय रामायापन्निवारिणे ॥ १८ ॥
काकासुरैकनयनहरल्लीलास्त्रधारिणे ।
नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ १९ ॥
भिक्षुरूपसमाक्रान्त बलिसर्वैकसम्पदे ।
नमो वामनरूपाय रामायापन्निवारिणे ॥ २० ॥
राजीवनेत्रसुस्पन्द रुचिराङ्गसुरोचिषे ।
नमः कैवल्यनिधये रामायापन्निवारिणे ॥ २१ ॥
मन्दमारुतसंवीत मन्दारद्रुमवासिने ।
नमः पल्लवपादाय रामायापन्निवारिणे ॥ २२ ॥
श्रीकण्ठचापदलनधुरीणबलबाहवे ।
नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ २३ ॥
राजराजसुहृद्योषार्चित मङ्गलमूर्तये ।
नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ २४ ॥
मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने ।
नमः पालितभक्ताय रामायापन्निवारिणे ॥ २५ ॥
भूरिभूधर कोदण्डमूर्ति ध्येयस्वरूपिणे ।
नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ २६ ॥
योगीन्द्रहृत्सरोजातमधुपाय महात्मने ।
नमो राजाधिराजाय रामायापन्निवारिणे ॥ २७ ॥
भूवराहस्वरूपाय नमो भूरिप्रदायिने ।
नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ २८ ॥
योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते ।
नमः सौन्दर्यनिधये रामायापन्निवारिणे ॥ २९ ॥
नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे ।
नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ ३० ॥
मायामानुषदेहाय वेदोद्धरणहेतवे ।
नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ ३१ ॥
मितिशून्य महादिव्यमहिम्ने मानितात्मने ।
नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ ३२ ॥
अहङ्कारेतरजन स्वान्तसौधविहारिणे ।
नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ ३३ ॥
सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने ।
नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ ३४ ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ ३५ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
तिष्ठन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ ३६ ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
फलश्रुति ।
इमं स्तवं भगवतः पठेद्यः प्रीतमानसः ।
प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ १ ॥
स तु तीर्त्वा भवाम्बोधिमापदस्सकलानपि ।
रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ २ ॥
कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे ।
आपन्निवारकस्तोत्रम् पठेद्यस्तु यथाविधिः ॥ ३ ॥
सम्योज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन्विभुम् ।
सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ ४ ॥
द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः ।
वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया ॥ ५ ॥
धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः ।
बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ ६ ॥
तं तं काममवाप्नोति स्तोत्रेणानेन मानवः ।
यन्त्रपूजाविधानेन जपहोमादितर्पणैः ॥ ७ ॥
यस्तु कुर्वीत सहसा सर्वान्कामानवाप्नुयात् ।
इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ ८ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.